Header Ads Widget

अध्याय 4 प्रबुध्दो ग्रामीण: अति लघु उत्तरीय प्रश्न

 अध्याय 4

प्रबुध्दो ग्रामीण:



//By upboardclasses//

अति लघु उत्तरीय प्रश्न


1. जना: धूमयानम् आरुह्य कुत्र गच्छन्ति स्म?

उत्तर

जना: धूमयानम् आरुह्य नगरं प्रति गच्छन्ति स्म।


2. ग्रामीणान् क: उपाहसत्?

उत्तर

एक नागरिक: ग्रामीणान् उपाहसत्।


3. ग्रामीणान् उपहसन् नागरिक: किम् अकथयत् ?

उत्तर

नागरिक: अकथयत् यत् -ग्रमीणा: अद्घापि पूर्ववत् अशिक्षिता: अज्ञाश्च सन्ति। न तेषां विकास: अभवत् न च भवितुं शक्नोति।


4. क: शिक्षित: बहुज्ञ: अस्ति?

उत्तर

भद्र नागरिक: शिक्षित: बहुज्ञ: अस्ति।


5. क: प्रथमं प्रहेलिकां पृच्छति?

उत्तर

प्रथमं प्रहेलिकां ग्रामीण: पृच्छति।


6. पदेनविना किं दूरं याति?

उत्तर

पत्रं पदेनविना दूरं याति।


7. अमुखोअ्पि क: स्फुटवक्ता भवति?

उत्तर

अमुखोअ्पि पत्रं स्फुटवक्ता भवति।


8. क: प्रहेलिकाया: उत्तरं दातुं समर्थ: न अभवत्?

उत्तर

नागरिक: प्रहेलिकाया: उत्तरं दातुं समर्थ: न अभवत्।


9. धूमयाने समय: केन जित: ?

उत्तर

एक: ग्रामीणेन् धूमयाने समय: जित:।


10. नागरिक: किमर्थं खिन्न: अभवत्?

उत्तर

नागरिक: दण्डदानेन खिन्न: अभवत्।


11. नागरिक: अधिकं लज्जमान: किम् अब्रवीत्?

उत्तर 

नागरिक: अब्रवीत् यत् " स्वकीयाया: प्रहेलिकाया: त्वमेव उत्तरं ब्रुहि।"


12. ग्रामीणस्य प्रहेलिकाया: किम् उत्तरम् आसीत्?

उत्तर

ग्रामीणस्य प्रहेलिकाया: उत्तरम् आसीत् ' पत्रम् ' ।


13. क: विहस्य प्रहेलिकाया: सम्यक् उत्तरं अवदत्?

उत्तर

ग्रामीण: विहस्य प्रहेलिकाया: सम्यक् उत्तरं अवदत्।


14. नागरिक: कथं किमर्थं लज्जित: अभवत्?

उत्तर

नागरिक: ग्रामीणस्य प्रहेलिकाया: उत्तरं दातुं न अशक्नोत् अतः नागरिक: लज्जित: अभवत्।


15. रेलयानात् अवतीर्य क: स्वग्रामं प्रति अचलत्?

उत्तर

रेलयानात् अवतीर्य ग्रामीण: स्वग्रामं प्रति अचलत्।


16. किं भुत्वा नागरिक: तूष्णीम् अतिष्ठत्?

उत्तर

लज्जित: भुत्वा नागरिक: तूष्णीम् अतिष्ठत्।


17. अन्ते नागरिक: किम् अनुभवम् अकरोत्?

अथवा

क: अन्वभवत यत् ज्ञानं सर्वत्र सम्भवति।

उत्तर

अन्ते नागरिक: अनुभवम् अकरोत् यत् ज्ञानं सर्वत्र सम्भवति।


18. ज्ञानं कुत्र सम्भवति?

उत्तर

ज्ञानं सर्वत्र सम्भवति।


19. के अपि कदाचित् नागरिकेभ्य: प्रबुद्धतरा: भवन्ति?

उत्तर

ग्रामीणा: अपि कदाचित् नागरिकेभ्य: प्रबुद्धतरा: भवन्ति।


20. धुमयानमारुह्य के गच्छन्ति स्म ?

उत्तर

धुमयानमारुह्य बहव: जना: गच्छन्ति स्म।


21. समये स्वीकृते प्रथमं क: अवदत्?

उत्तर

समये स्वीकृते प्रथमं ग्रामीण: अवदत्।


22. ' कथयिष्यामि परं पूर्वं समय: विधातव्यं' इति केन उक्तम्?

उत्तर

कथयिष्यामि परं पूर्वं समय: विधातव्यं' इति नागरिकेन उक्तम्।


23. ग्रामीणं नागरिकं किम् अपृच्छत्?

उत्तर

ग्रामीणं नागरिकं एकं प्रहेलिकाम् अपृच्छत्।







Related posts


1. अध्याय 1 वाराणसी अति लघु उत्तरीय प्रश्न

2. अध्याय 2 अन्योक्तिविलास अति लघु उत्तरीय प्रश्न

3. अध्याय 3 वीर: वीरेण पूज्यते अति लघु उत्तरीय प्रश्न







Thanks for watching....









Share and comment kare....





Post a Comment

0 Comments