Header Ads Widget

अध्याय 1 वाराणसी अति लघु उत्तरीय प्रश्न

अध्याय 1
वाराणसी 


प्रश्न 1. वाराणसी नगरी कुत्र स्थिता अस्ति ? 
उत्तर
वाराणसी नगरी गङ्गायाः तटे स्थिता अस्ति।


प्रश्न 2. वैदेशिकाः पर्यटकाः कस्याः शोभाम् अवलोक्य वाराणसी प्रशंसन्ति ?
उत्तर
वैदेशिकाः पर्यटका: गङ्गायाः घट्टानां शोभां विलोक्य वाराणसी प्रशंसन्ति।


प्रश्न 3. वैदेशिकाः किमर्थम् (केन हेतुना) वाराणसीम् आगच्छन्ति ?
उत्तर
वैदेशिका: संस्कृतस्य अध्ययनाय वाराणसीम् आगच्छन्ति।


प्रश्न 4. वाराणस्यां कति विश्वविद्यालयाः सन्ति ?

  अथवा

 वाराणस्यां: कियन्त:  विश्वविद्यालया: सन्ति ? 
उत्तर

वाराणस्यां त्रय: विश्वविद्यालया: सन्ति।


प्रश्न 5. वाराणसी कस्याः भाषायाः केन्द्रम् अस्ति ? 
 अथवा 
वाराणसी कस्य केन्द्रस्थली अस्ति ?

उत्तर

वाराणसी भारतीयसंस्कृते: संस्कृतभाषायाश्च केन्द्रम् अस्ति।


प्रश्न 6. कः मुगलयुवराजः वाराणस्याम् आगत्य भारतीय दर्शनशास्त्राणाम् अध्ययनम् अकरोत् ?
उत्तर

मुगलयुवराज: दाराशिकोह: वाराणस्याम्  आगत्य भारतीय दर्शनशास्त्राणाम् अध्ययनम् अकरोत्।



प्रश्न 7. दाराशिकोहः कुत्र गत्वा भारतीयशास्त्राणाम् अध्ययनम् अकरोत् ? 
उत्तर

दाराशिकोह: वाराणस्यां गत्वा भारतीयशास्त्राणाम् अध्ययनम् अकरोत्।


प्रश्न 8. दाराशिकोहः कस्यां भाषायाम् उपनिषदाम् अनुवादम् अकारयत् ? 
उत्तर

दाराशिकोह: पारसीभाषायाम् उपनिषदाम् अनुवादम् अकारयत्।।


प्रश्न 9. वाराणसी नगरी केषां सङ्गमस्थली अस्ति ? 
या
का नगरी विविधधर्माणां सङ्गमस्थली अस्ति ?
या
वाराणसी कस्य सङ्गमस्थली अस्ति ?

उत्तर
वाराणसी नगरी विविधधर्माणां  सङ्गमस्थली अस्ति।


प्रश्न 10. वाराणसी किमर्थं प्रसिद्धा ?

अथवा 

वाराणसी कथं प्रसिद्धा अस्ति ?
उत्तर

वाराणसी विविधानां शिल्पानां कलानां, संस्कृतभाषायाः संस्कृतेश्च कृते प्रसिद्धा अस्ति।



प्रश्न 11.  कुत्र मरणं मङ्गलं भवति ? 
उत्तर

वाराणस्यां मरणं मङ्गलं भवति।


प्रश्न 12. सम्पूर्णानन्द संस्कृत विश्वविद्यालयः कस्यां नगर्यां विद्यते ? 
उत्तर

सम्पूर्णानन्द संस्कृत विश्वविद्यालयः  वाराणस्यां नगर्या विद्यते।


प्रश्न 13. दाराशिकोहः किमर्थम् अत्रागतः ?
उत्तर

मुगलयुवराजः दाराशिकोहः भारतीय दर्शनशास्त्राणाम् अध्ययनाय अत्र आगच्छत् ।


प्रश्न 14. दाराशिकोहः वाराणसी आगत्य किमकरोत् ?
उत्तर

दाराशिकोह: वाराणसीं आगत्य भारतीय दर्शनशास्त्राणाम् अध्ययनम् अकरोत्।



प्रश्न 15. वाराणस्याः कानि वस्तूनि प्रसिद्धाः सन्ति ? 
उत्तर

वाराणस्याः कौशेयशाटिका: प्रस्तरमूर्तयः च प्रसिद्धाः सन्ति।


प्रश्न 16. वाराणसी नगरी कस्याः कूले स्थिता ? 
उत्तर

वाराणसी नगरी गङ्गायाः कूले स्थिता।


प्रश्न 17. वाराणसी नगरी केषां कृते लोके विश्रुता अस्ति ?
उत्तर

न केवलं दर्शने, साहित्ये, धमें अपितु  कलाक्षेत्रेऽपि विविधानां कलानां शिल्पानां च कृते वाराणसी नगरी लोके विश्रुता।


प्रश्न 18.  कस्याः शोभां विलोक्य पर्यटकाः बहु प्रशंसन्ति ?
उत्तर

गङ्गायाः घट्टना शोभां विलोक्य पर्यटका: बहु प्रशंसन्ति।


प्रश्न 19. वाराणस्यां गेहे-गेहे किं द्योतते ? 
उत्तर

वाराणस्यां गेहे-गेहे विद्यायाः दिव्यं  ज्योति: द्योतते।















Thanks for watching................









Share and comment kare..........



Post a Comment

0 Comments