Header Ads Widget

अध्याय 7 महर्षि दयानंद: प्रश्न – उत्तर

 कक्षा 12 संस्कृति अध्याय 7 महर्षि दयानंद: प्रश्न – उत्तर :-




प्रश्न 1.

महर्षेः दयानन्दस्य पितुः नाम किम् आसीत्? (2014)

उत्तर:

महर्षेः दयानन्दस्य पितुः नाम श्रीकर्षणतिवारी आसीत्।


प्रश्न 2.

महर्षेः दयानन्दस्य जन्मः कस्मिन् स्थाने/ग्रामे अभवत्। (2018, 17, 14, 10)

अथवा

महर्षेः दयानन्दस्य जन्मभूमिः कुत्र आसीत्

अथवा

मूलशङ्करस्य जन्म कुत्र अभवत्? (2018, 14)

उत्तर:

महर्षेः दयानन्दस्य जन्म सौराष्ट्रप्रान्ते टङ्कारानाम्नि ग्रामे अभवत्।


प्रश्न 3.

महर्षेः दयानन्दस्य बाल्यकालिकं किं नाम आसीत्?

उत्तर:

महर्षेः दयानन्दस्य बाल्यकालिकं मूलशङ्करः इति नाम आसीत्।।


प्रश्न 4.

दयानन्दस्य भगिनी कथं पञ्चत्वं गता? (2017, 14)

उत्तर:

दयानन्दस्य भगिनी विषूचिकया पञ्चत्वं गता।


प्रश्न 5.

मूलशङ्करस्य हृदये वैराग्यं कथम् उत्पन्नम्। (2012)

उत्तर:

स्वभगिन्याः पितृव्यस्य च मृत्युं दृष्ट्वा मूलशङ्करस्य हृदये वैराग्यप्रदीप: प्रज्वलितः।


प्रश्न 6.

महर्षेः दयानन्दस्य गुरुः कः आसीत्? (2017, 16, 15, 13, 10)

अथवा

विरजानन्दः कस्य गुरुः आसीत्? (2015, 10)

उत्तर:

विरजानन्दः महर्षेः दयानन्दस्य गुरुः आसीत्!


प्रश्न 7.

दयानन्दः किमर्थं सर्वत्र भ्रमति स्म? (2018)

उत्तर:

दयानन्दः अमरत्व प्राप्त्युपायं चिन्तपन् सर्वत्र भ्रमति स्म।


प्रश्न 8.

दयानन्दः विद्याध्ययनार्थं कुत्र गत? (2018)

उत्तर:

दयानन्दः विद्याध्ययनार्थं मथुरानगरं गतः

Post a Comment

0 Comments